|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.116. अध्यायः 116
Mahabharata - Shanti Parva - Chapter Topics
केनचिन्मुनिवरेण द्वीपिभये सति द्वीपित्वं प्रापितस्य स्वीयशुनःपुनर्व्याघ्नाङ्भये सति व्याघ्रीकरणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`युधिष्ठिर उवाच। 12-116-0x(5656)(69291)
न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु।
अकुलीनाश्च कर्तव्या न वा भरतसत्तम्॥' 12-116-1(69292)
भीष्म उवाच। 12-116-2x(5657)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निदर्शनं परं लोके सज्जनाचरितं सदा॥ 12-116-2(69293)
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने।
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः॥ 12-116-3(69294)
वने महति कस्मिंश्चिदमनुष्यनिषेविते।
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः॥ 12-116-4(69295)
दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः।
उपवासविशुद्धात्मा सततं सत्पथे स्थितः॥ 12-116-5(69296)
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः।
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः॥ 12-116-6(69297)
सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः।
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः॥ 12-116-7(69298)
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः।
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः॥ 12-116-8(69299)
उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम्।
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम्॥ 12-116-9(69300)
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः।
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा॥ 12-116-10(69301)
तस्यर्षेरुपविष्टस्य पादमूले महामतेः।
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम्॥ 12-116-11(69302)
ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः।
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकः॥ 12-116-12(69303)
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः।
व्यादितास्यः क्षुधाः भुग्नः प्रार्थयानस्तदामिषम्॥ 12-116-13(69304)
दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप।
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशांपते॥ 12-116-14(69305)
श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति।
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने।
[तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः॥ 12-116-15(69306)
स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम्।
रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः॥] 12-116-16(69307)
मुनिरुवाच। 12-116-17x(5658)
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन।
एष श्वरूपरहितो द्वीपी भवसि पुत्रक॥ 12-116-17(69308)
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृति।
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः॥ 12-116-18(69309)
तं दृष्ट्वा संमुखे द्वीपी आत्मनः सदृशं पशुम्।
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत॥ 12-116-19(69310)
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्विः।
द्वीपिनं लेलिहन्वक्रं व्याघ्रो रुधिरलालसः॥ 12-116-20(69311)
व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम्।
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान्॥ 12-116-21(69312)
ततः संवासजं स्नेहमृषिणा कुर्वता तदा।
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः॥ 12-116-22(69313)
ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशांपते।
स तु श्चा व्याघ्रतां प्राप्य बलवान्पिशिताशनः॥ 12-116-23(69314)
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा।
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः।
तथैव स महाराज व्याघ्रः समभवत्तदा॥ ॥ 12-116-24(69315)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षोडशाधिकशततमोऽध्यायः॥ 116॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-116-2 अत्र उत्तमाधममध्यमस्थानेषु क्रमात् तएव योज्या नतु उच्चस्थाने नीचो नियोज्य इत्यस्मित्रर्थे॥ 12-116-3 अस्यैव वक्ष्यमाणस्य॥ 12-116-6 सत्वाः प्राणिनः॥ 12-116-8 सुखप्रश्नदाः सुखिनः स्थ इति प्रश्नस्योत्तरं सुखिनः स्मः इति तत्प्रदा इत्यर्थः॥ 12-116-11 भावं चित्तम्॥ 12-116-13 सुधामत्तः इति ड.थ. पाठः॥ 12-116-17 द्वीपिनो द्वीपिरूपान्मृत्युतः॥ 12-116-21 क्षुधाभुग्नं पीडितम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|